![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/e/e4/Third_Shahi_Snan_in_Hari_Ki_Pauri.jpg/640px-Third_Shahi_Snan_in_Hari_Ki_Pauri.jpg&w=640&q=50)
कुम्भोत्सवः
From Wikipedia, the free encyclopedia
कुम्भोत्सवः अस्माकं देशे बहु महत्त्वपूर्णः पर्व अस्ति । देशस्य चतुर्षु स्थानेषु कुम्भोत्सवाः आयोज्यन्ते - प्रयागे, हरिद्वारे, उज्जयिन्यां, नासिके च । प्रत्येकस्मिन् नगरे द्वादशवर्षाणाम् अनन्तरम् एकः पूर्णकुम्भयोगः आयाति । एवं वर्षत्रयस्य अनन्तरं क्रमशः देशस्य एकैकस्मिन् स्थाने कुम्भोत्सवः भवति । प्रत्येकस्मिन् नगरे षष्ठे वर्षे अर्धकुम्भयोगः अपि भवति । कुम्भोत्सवः प्रायशः सार्धैकमासपर्यन्तं चलति । कुम्भोत्सवे भागं ग्रहीतुं भारतवर्षस्य अनेकेभ्यः स्थानेभ्यः सामान्यजनाः साधवः संन्यासिनः च आगच्छन्ति । केचित् सामान्यजनाः साधवः च पूर्णसमयं यावत् कुम्भोत्सवे निवसन्ति । अन्ये जनाः विशिष्टस्नानपर्वेषु एव गच्छन्ति । कुम्भोत्सवे जनाः नदीषु स्नानं कुर्वन्ति । तत्र स्नानस्य एव विशिष्टं महत्त्वं वर्तते ।
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/a/a4/Nashik_during_1989_Kumbh_Mela.jpg/640px-Nashik_during_1989_Kumbh_Mela.jpg)
कुम्भोत्सवः कुम्भ मेला | |
---|---|
![]() पैलगर्भ अन्तः हरिद्वारकुम्भोत्सवः | |
आवृत्तिः | सर्व 12 वर्ष: |
स्थानम् | हरिद्वार, प्रयाग (आल्लहबद्), नाशिक-त्रिम्बक and उज्जैन |
पूर्वोत्सवः | 2016 |
अन्वोत्सवः | 2022 |
प्रतिभागी | पैलगर्भ, अखरस, वणिग्जन |
शैली | गौर |
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/f/f9/Bathing_ghat_on_the_Ganges_during_Kumbh_Mela%2C_2010%2C_Haridwar.jpg/640px-Bathing_ghat_on_the_Ganges_during_Kumbh_Mela%2C_2010%2C_Haridwar.jpg)
चत्वारि कुम्भस्थानानि चतसृण् प्रमुखाणां नदीनां तटेषु अवस्थितानि सन्ति ।