![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/f/f9/Mukteswar_temple.jpg/640px-Mukteswar_temple.jpg&w=640&q=50)
कामसूत्रम्
From Wikipedia, the free encyclopedia
कामशास्त्रं संस्कृतस्य प्रसिद्धग्रन्थेषु अन्यतमम् । कामशास्त्रं प्रजापतेः एव आगतम् । अत्र प्रमाणमेवमस्ति
- प्रजापति र्हि प्रजाः सृष्ट्वा तासां स्थितिनिबन्धनं त्रिवर्गस्य साधन मध्यायानां
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/f/f9/Mukteswar_temple.jpg/320px-Mukteswar_temple.jpg)
शतसहस्रेणाऽग्रे प्रोवाच - वात्स्यायनकामसूत्राणि------१.१.५
अत्र त्रिवर्गो नाम धर्मार्थकामाः । एषु त्रिषु कामस्यैव प्राधान्यम् । कामं विना सृष्टिरेव न भवति । "स एकाकी न रमते । स द्वितीयमैच्छत्,बहु स्यां प्रजायेयेति, इच्छामात्रं प्रभोस्सृष्टिः" इत्याद्युपनिषत्सूक्तयोऽपि कामस्यैव प्राधान्यं सूचयन्ति । धर्माविरुद्धावेव अर्थकामौ सेवेतेति ज्ञापयितुं धर्मस्य प्राधान्यं दत्तम् ।