From Wikipedia, the free encyclopedia
एवं किलानुमीयते यद् बालानां लालने पालने च हार्दं दधानाः मातरः तेषां hello मनोरञ्जनाय पूर्वं स्वयं मधुरसंलापेन नानाविध-मुखसुख-वितरणेन विविधश्रुतिसुखदैःनिनदैः कर-तल-कलितैः शब्दैः च तान् व्यनोदयन् । ततः परं कृत्रिमैः क्रीडनकैः तान् क्रीडनाय प्रेरयन्त्यो जागतिकैः पदार्थैः परिचाययन्त्यः कैश्चिदुपकरणविशेषैः खेलितुं प्रावर्तयन् । इत्थम् उपकरण-माध्यमेन संसारस्य स्थितिं गतिं बोधयितुं लघु-लघूनि क्रीडनकानि सृष्टानि, येषु ब्रह्माण्ड-पिण्डावबोधाय ‘कन्दुकसृष्टिः’ सर्वथा समीचीनाऽभवत् ।
कन्दुकेन क्रीडनं शैशवात् एव आरभ्यते, यथा यथा वयो वर्धते तस्य खेलाविधिषु अपि वैविध्यं विशति । करतलेन कन्दुकस्य उत्पातन-निपातने ग्रहण- क्षेपणे तथा प्रताडनादिविधयः सत्यमेव मनसः प्रसादनाय अलम् भवन्ति । पूर्वं पाषाणनिर्मितेन ततः परं काष्ठनिर्मितेन कन्दुकेन क्रीडाऽभवत् । वैज्ञानिके युगे द्रव- विशेष (रबर्)-निर्मितानां कन्दुकानां प्रसारः अवर्धत । आक्रुत्या दर्शनीयं प्रक्रूत्या स्पर्शनीयं भारवर्जितं मृदुलं कन्दुकं बालाः क्रीडनेषु नितान्तं प्रमुद्य प्रायुञ्जन् । मानवस्यायं स्वभावो विद्यते यत् सः स्वबुद्धिबलोदयेन किमपि नूतनं नूतनमेव वाञ्छति । एतत्कारणात् एव प्राक्तनं कन्दुकं कदाचित् स्थूल-स्थूलं विधातुम् अचेष्टत कदाचित् च सूक्ष्माति -सूक्ष्मम् । सामान्याभ्यो गुटिकाभ्यः आरभ्य चर्मनिर्मितस्थूलकन्दुकनिर्मितिं यावत् साम्प्रतं कन्दुक- सृष्टिः सर्वत्र विधीयते ।
वर्तमाने क्रीडाजगति कन्दुकक्रीडानां भूयान् विस्तारः अवलोक्यते । यत्र तत्र सर्वत्र येन केनापि विशिष्टप्रकारेण क्रीडन्तः क्रीडकाः समहरुपेण, युगलरुपेण एकाकिन्याम् अवस्थायां वा, लघुना दीर्घेण सूक्ष्मेण महता, कृशेन स्थूलेन, कोमलेन, कठोरेण वा कन्दुकेन गृहे क्रीडाक्षेत्रे च हस्ताभ्यां पादाभ्यां च सोपकरणाः निरुपकरणाः सलिले सन्तरन्तः, क्षेत्रे धावन्तः, स्थले कूर्दन्तः यष्टिकया ताडयन्तः, पट्टिकया पराकुर्वन्तः, अश्वारोहणपूर्वकम् एकेन अनेकैः वा कन्दुकैः आत्मनो भूयसां जनानां च मनांसि रञ्जयन्तः प्रातर्मध्ये अह्नि सायं रात्रौ वा निरन्तरं बालाः युवानः वृद्धाः बालिकाः कन्यकाः युवत्यः प्रौढाः सर्वाः अपि कन्दुकक्रीडानुरागरञ्जिताः दृश्यन्ते । अतः कन्दुकक्रीडायाः जले स्थले व्योम्नि च प्राज्यं साम्राज्यं राजते भ्राजते च इति कथने नास्ति शङ्कापङ्कावकाशः ।
वयमेतासां कन्दुकक्रीडानां वर्गीकरणमित्थं कर्तुं शक्नुमः
विश्वस्मिन् सर्वासु क्रीडासु ‘कन्दुकक्रीडा’ परमेणानुरागेण क्रीडयते । अस्माकं प्राचीने साहित्येऽपि कन्दुकक्रीडनस्यैव वर्णनं भूयोभूय आगच्छति । संस्क्तृतकाव्येषु नाटकेषु मुक्तकेषु च कन्दुकाश्रयेण बहुविधं वर्णनं प्राप्यते । प्राचीनकाले कन्दुकं प्रति नारीणां नृणां बालानां बालिकानां च रुचिरतीवाधिकाऽवर्तत । स्त्रियोऽन्तःपुरे तथा पुरुषा बालाश्व गृहनिकटस्थे प्राङ्गणे क्रीडन्ति स्म । महर्षिणा व्यासेन पुराणेषु तथा कालिदासादिभिः कविवरैः काव्येषु नाटकेषु वर्णितेयं क्रीडा बहुविधा विद्यते अतोऽत्र पूर्वं वर्णितानां क्रीडातानामतिरिक्तमपि काश्चन क्रीडा दिङ्निर्देशभावनया प्रस्तूयन्ते । यथा -
करण्डक -कन्दुक -क्रीडेव किञ्चित् साम्यं भजन्तीयं क्रीडा महिलाभ्यः प्रमुखरुपेण् प्रवृत्ताऽस्ति ।
चतुरस्रे क्रीडाङ्गणे महिला बालक -बालिकाश्च क्रीडामिमां रमन्ते ।
मुख्यत्वेन महिला १८ (९*२) अष्टादशसंख्यया दलद्वयं विभज्य करकन्दुकवदेवेमां क्रीडामाचरन्ति ।
अस्यां मण्डलं विधाय स्थितं दलमन्तः क्रीडकान कन्दुकेन साक्षात् ताडयित्वा क्रीडकं बहिर्गतं विधत्ते । इयं ‘कन्दुकताडनी (दडामार) इत्यपि निगद्यते ।
इयं टेनिस्-कन्दुकेन क्रीडत्सु क्रीडकेषु यं कमपि यः कोऽपि क्रीडकः स्वहस्तागां कन्दुकं गृहित्वा क्रीडनेन सम्पद्यते । एवमेवान्या अपि काश्चन क्रीडाः प्रादेशिकरुपेण प्रचलिताः स्युरिति तत्र न विवादः ।
अभिनवक्रीडातरंगिणी
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.