![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/e/e1/Hitler_portrait_crop.jpg/640px-Hitler_portrait_crop.jpg&w=640&q=50)
ऐडॉल्फ् हिटलर्
From Wikipedia, the free encyclopedia
सः जर्मनीदेशस्य एको राजनेता य एकाधिपतिर्बभूव (१९३३-१९४५), तस्य जन्म ऑस्ट्रियादेशे बभूव, स नाज़ीदलस्य नेता भूत्वा सद्यैव सत्तां प्रापतवान् (१९३३), तेन १सितम्बर १९३९ दिवसे पोलैण्डदेशस्योपर्याक्रमणं कृतं ततश्च द्वितीयविश्वयुद्धो जातः। तेन युद्धे सर्वाणि कार्याणि स्वमेव निर्दिष्टानि। तेन बहवो यहूदिजना हताः।
त्वरिततथ्यानि ऐडॉल्फ् हिटलर्, जन्म ...
पिदधातु
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/1/10/Bundesarchiv_Bild_183-S33882%2C_Adolf_Hitler_retouched.jpg/320px-Bundesarchiv_Bild_183-S33882%2C_Adolf_Hitler_retouched.jpg)
अस्य जन्म ऑस्ट्रियादेशे बभूव, स प्रथमविश्वयुद्धे योद्धासीत्, एकदा तस्य प्राणरक्षा एकेन शत्रुसैनिकेन कृता, ततो स जर्मनीदेशीयराजनीत्यामागतः, तस्य मतिरासीद्यद्यहूदिजनानां कारणेनैव जर्मनीदेशः प्रथमविश्वयुद्धे पराजित इति।
तस्य राज्यकालेऽभिवादनमपि "हाईल् हिटलर" इत्युक्त्वा कुर्वन्तयासीज्जनाः, एषासीत्तस्य प्रसिद्धिः