उसैन् बोल्ट् (Usain Bolt) बहुसुप्रसिद्धः लघुधावनक्रीडकः वर्तते ।
त्वरिततथ्यानि व्यक्तिगतविवरणम्, उपनाम ...
उसैन् बोल्ट्/Usain Bolt
Bolt at the 2012 Summer Olympics .
व्यक्तिगतविवरणम् उपनाम
Lightning Bolt राष्ट्रियता
Jamaican जन्म
(१९८६-२-२ ) २१ १९८६ (आयुः ३७) Sherwood Content , Trelawny , Jamaica [1] वासस्थानम्
Kingston, Jamaica औन्नत्यम्
१.९५ m (६ ft 5 in)[2] भारः
94 किग्रा (207 पाउन्ड)[2] क्रीडा क्रीडा
Track and field वृत्तविधाः
Sprints समावयः
Racers Track Club उपलब्धयः शीर्षिकाः च वैयक्तिकोत्तमम्
100 m : 9.58 WR (Berlin 2009)[3]
150 m : 14.35 WB (Manchester 2009)[4]
200 m : 19.19 WR (Berlin 2009)[5]
300 m : 30.97 (Ostrava 2010)
400 m : 45.28 (Kingston 2007)
पदकप्रशस्तयः
Men's athletics
Competitor for फलकम्:JAM
फलकम्:MedalCount
Olympic Games
स्वर्णम् 2008 Beijing 100 m
स्वर्णम् 2008 Beijing 200 m
स्वर्णम् 2008 Beijing 4×100 m relay
स्वर्णम् 2012 London 100 m
स्वर्णम् 2012 London 200 m
स्वर्णम् 2012 London 4×100 m relay
World Championships
स्वर्णम् 2009 Berlin 100 m
स्वर्णम् 2009 Berlin 200 m
स्वर्णम् 2009 Berlin 4×100 m relay
स्वर्णम् 2011 Daegu 200 m
स्वर्णम् 2011 Daegu 4×100 m relay
स्वर्णम् 2013 Moscow 100 m
स्वर्णम् 2013 Moscow 200 m
स्वर्णम् 2013 Moscow 4×100 m relay
रजतम् 2007 Osaka 200 m
रजतम् 2007 Osaka 4×100 m relay
World Athletics Final
स्वर्णम् 2009 Thessaloniki 200 m
CAC Championships
स्वर्णम् 2005 Nassau 200 m
World Junior Championships
स्वर्णम् 2002 Kingston 200 m
रजतम् 2002 Kingston 4×100 m relay
रजतम् 2002 Kingston 4×400 m relay
Pan American Junior Championships
स्वर्णम् 2003 Bridgetown 200 m
रजतम् 2003 Bridgetown 4×100 m relay
CARIFTA Games (Junior)
स्वर्णम् 2003 Port of Spain 200 m
स्वर्णम् 2003 Port of Spain 400 m
स्वर्णम् 2003 Port of Spain 4×100 m relay
स्वर्णम् 2003 Port of Spain 4×400 m relay
स्वर्णम् 2004 Hamilton 200 m
स्वर्णम् 2004 Hamilton 4×100 m relay
स्वर्णम् 2004 Hamilton 4×400 m relay
World Youth Championships
स्वर्णम् 2003 Sherbrooke 200 m
CAC Junior Championships (Youth)
स्वर्णम् 2002 Bridgetown 200 m
स्वर्णम् 2002 Bridgetown 400 m
स्वर्णम् 2002 Bridgetown 4×100 m relay
स्वर्णम् 2002 Bridgetown 4×400 m relay
CARIFTA Games (Youth)
स्वर्णम् 2002 Nassau 200 m
स्वर्णम् 2002 Nassau 400 m
स्वर्णम् 2002 Nassau 4×400 m relay
रजतम् 2001 Bridgetown 200 m
रजतम् 2001 Bridgetown 400 m
Competitor for the Americas
World Cup
रजतम् 2006 Athens 200 m
पिदधातु
एषः वर्तमानकाले अत्युत्तमधावनक्रीडालुः वर्तते । १०० मी तथा २०० मी लघुधावनक्रीडाद्वये उसैन् बोल्ट् जगत्यां प्रथमः स्वर्णपदकविजेता वर्तते । लैट्निङ्ग् बोल्ट् इति अस्य उपनाम भवति ।
उसैन् बोल्ट्-वर्यः १९८६ तमे वर्षे आगस्ट्-मासस्य २१ दिनाङ्के जमैकादेशस्य ट्रेलव्नी (Trelawny) प्रदेशे जन्मप्राप्तवान् । तस्य पिता वेलेस्ले , माता जेनिफर् बोल्ट् स्तः । तस्य अनुजः साडकि तथा अनुजा शेरिन् च स्तः । तस्य मातापितॄणाम् एकम् आपणम् आसीत् । तदानीम् उसैन् बोल्ट्-वर्यः पादकन्दुकक्रीडा, क्रिकेट् क्रीडां क्रीडतिस्म । सः वल्डेन्सिया प्राथमिकशालायां शिक्षणाभ्यासम् आरम्भं कृतवान् । तत्र सः क्रीडायाः विषये विद्यमानम् उत्साहं प्रदर्शितवान् । तस्य १२ वर्षस्य वयसि सः विद्यालयस्य १००मी धावनक्रीडायाम् अत्युत्तमधावकः अभवत् ।
उसैन् बोल्ट्-वर्यः माध्यमिकशिक्षणार्थं विलियं निब् मेमोरियल् (William Knibb Memorial) विद्यालयं प्रविष्टवान् । तत्र सः अन्यक्रीडासु मनसः केन्द्रीकरणं कृतवान् । सः क्रिकेट् क्रीडा क्रीडनसमये तस्य विद्यालयस्य मार्गनिर्देशकः अस्य धावनस्य गतिं दृष्टवान् । मार्गनिर्देशकः एनं धावनादि क्रीडायां मनसः एकत्रीकरणार्थं प्रचोदितवान् । पाब्लो मेक्नील् (Pablo McNeil) तथा ड्वेन् जरेट् (Dwayne Jarrett) द्वौ अस्य अत्लेटिक्स् क्रीडार्थं मार्गदर्शनं दत्तवन्तौ । मैकल् ग्रीन्(Michael Green) इत्यादि अत्लेटिक् क्रीडापटवः अस्य विद्यालये अभ्यासं कृतवन् आसीत् ।
२०१३
१०२३ तमे वर्षे लन्डन् वार्षिकक्रीडोत्सवे इटलीदेशे रोम्-नगरे १००मी धावनस्पर्धायां ९.८५ क्षणेषु जयं प्राप्तवान् । ४*१००मी रिले जमैका देशार्थं जितवान् ।
२०१३ तमे वर्षे आगस्ट् ११ दिनाङ्के विश्वविजेतॄणां क्रीडोत्सवे बोल्ट्-वर्यः प्रपञ्चस्य अत्युत्तम धावकः इति चरितं रचितवान् । तस्यामेव क्रीडायां २००मी तथा ४*१००मी धावनस्पर्धायां च स्वर्णपदकं प्राप्तवान् ।
उसैन् बोल्ट्-वर्यः नर्तनं बहु इच्छति ।
स्पर्धायाः पूर्वं क्रिस्तो स्मरणम्
केथोलिक् न्यूस् एजेंसी पत्रिकानुसारं बोल्ट् केथोलिक् पन्थीयः वर्तते । अस्य मध्यमनाम सैण्ट् लियो (Saint Leo) । सः स्पर्धायां भागग्रहणात् पूर्वं क्रोस् (cross) इति क्रिस्तोः चिन्हं स्मरणं करोति ।
२०१० तमे वर्षे सङ्गीतस्य प्रति तस्य अनुरागः वर्तते इति दर्शितवान् । सः पेरिस् नगरे रेगे डीजे (reggae DJ) सङ्गीतवादनं कृतवान् ।
सः प्रारम्भतः क्रिकेट्-क्रीडाम् इच्छति स्म । यदि सः लघुधावकः न भवति स्म, तर्हि सः वेगकन्दुकक्षेपकः भवति स्म इति सः भावं प्रकटितवान् आसीत् ।
सः बाल्यादारभ्य पाकिस्तानदेशस्यक्रिकेट्-दलस्य तथा वाकर् यूनिस् कन्दुकक्षेपकस्य च अभिमानी वर्तते । सः भारतस्य क्रिकेट् क्रीडकः सचिनतेण्डुलकरस्य , वेस्ट् इण्डिस् प्रदेशस्य क्रिस् गेल् वर्यस्य तथा आस्ट्रेलियादेशस्य माथिव् हेडन् वर्यस्य च अभिमानी वर्तते ।
२०११ तमे वर्षे लन्डन्-नगरे यु इ एफ् ए (UEFA)चाम्पियन्स् लीग् अन्तिमक्रीडायां माञ्चेस्टर् युनैटेड् संस्थायाः अथितिरूपेण बोल्ट्-वर्यः आगतः आसीत् ।
२०१३ तमे वर्षे एन् बि ए आल् स्टार् वीकेण्ड् सेलेब्रिटी क्रीडायां बास्केट्बाल्-क्रीडां क्रीडीतवान् ।