इदम् उशीरसस्यं भारते वर्धमानः कश्चन सस्यविशेषः । इदं वस्तुतः तृणम् । इदम् उशीरसस्यं भारतस्य सर्वेषु अपि प्रदेशेषु वर्धते । एतदतिरिच्य ब्रेजिल्, वेस्ट् इण्डीस्, बर्मा इत्यादिषु देशेषु अपि वर्धते । इदं सस्यं गुल्माकारेण वर्धते । अस्य मूलं सुगन्धयुक्तं भवति । अस्य मूले भाष्पीभवनशीलं किञ्चित् तैलं भवति । तथैव रेसिन्, कलरिङ्ग् म्याटर्, आम्ल साल्ट् आफ् लैम्, अयसः आक्सैड् इत्यादयः अंशाः अपि भवन्ति ।

त्वरिततथ्यानि उशीरसस्यम्, जैविकवर्गीकरणम् ...
उशीरसस्यम्
Thumb
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) ओषधिः
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Monocots
(अश्रेणिकृतः) Commelinids
गणः Poales
कुलम् Poaceae
वंशः Chrysopogon
जातिः C. zizanioides
द्विपदनाम
Chrysopogon zizanioides
(L.) Roberty
पर्यायपदानि

Vetiveria zizanioides

पिदधातु

इतरभाषाभिः अस्य उशीरसस्यस्य नामानि

इदम् उशीरसस्यम् आङ्ग्लभाषया “खस् ग्रास्” इति उच्यते । अस्य वैज्ञानिकं नाम अस्ति Vetivaria Ziznioides इति । हिन्दीभाषया इदम् उशीरसस्यं “बाला” अथवा “खस्” इति, तेलुगुभाषया “विडावलिबेरु” इति, तमिळ्भाषायाम् “इलमिचामवर्” इति, मलयाळभाषया “वेट्टवर्” इति, कन्नडभाषया “लामञ्च” अथवा “लावञ्च” इति उच्यते ।

आयुर्वेदस्य अनुसारम् अस्य उशीरसस्यस्य प्रयोजनानि

अस्य उशीरसस्यस्य रसः तिक्तः मधुरः च । अस्य गुणः लघु, रूक्षः च । इदम् उशीरसस्यं शीतवीर्ययुक्तम् । चिपाके कटुः भवति ।

१. इदम् उशीरसस्यं कफं पित्तं च शमयति ।
२. इदं मूत्रविकारेषु, रक्तपित्ते, ज्वरे च उपयुज्यते ।
३. विसर्पे अपि इदं हितकरम् ।
४. अस्य सेवनेन पित्तजन्याः व्याधयः अपगच्छन्ति ।
५. अनेन निर्मितम् “उशीरासव” नामकम् औषधम् आयुर्वेदस्य आपणेषु उपलभ्यते । तत् औषधं ३०मि.ली. यावत् सेवनीयम् ।
६. अस्य “षडङ्गपानीयम्” अपि ३० मि.ली यावत् सेवितुं शक्यते ।

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.