आमेरदुर्गम्
From Wikipedia, the free encyclopedia
आमेरदुर्गं (आम्बेरदुर्गम्) भारतस्य राजस्थान-राज्यस्य राजधान्याः जयपुर-नगर्याः आमेर-क्षेत्रे कस्मिँश्चित् उन्नते पर्वते स्थितं पर्वतीयदुर्गम् अस्ति। एतत् जयपुर-नगरस्य प्रधानं पर्यटकाकर्षणम् अस्ति। आमेर-क्षेत्रं मूलरूपेण स्थानीयैः मीणा-जनैः विकसितं वर्तते, यस्मिन् कालान्तरे कछवाहा-राजपूतः मानसिंहप्रथमः राज्यम् अकरोत्। स एव दुर्गस्यास्य निर्माणम् अकारयत्। एतद्दुर्गं स्वस्य कलात्मकाय विशुद्धाय हिन्दूवास्तुशैल्याः घटकाय प्रसिद्धम् अस्ति। दुर्गस्य विशालानां प्राचीराणां, द्वाराणां शृङ्खलाः, प्रस्तरैः निर्मातैः मार्गैः युक्तं दुर्गमिदं पर्वतस्य केन्द्रीयप्रदेशे स्थित्वा मावठा-सरोवरं पश्यन्नस्ति इति प्रतीयते।
आमेरदुर्गम् आम्बेरदुर्गम् | |
---|---|
Part of जयपुरम् | |
आमेर, राजस्थानम्, भारतम् | |
आमेरदुर्गस्य सम्मुखं दृश्यं, यस्मिन् विशाला सर्पाकारा सोपानशृङ्खला अपि दृश्यते। | |
अवस्थानम् | 26.9859°उत्तरदिक् 75.8507°पूर्वदिक् / २६.९८५९; ७५.८५०७ |
प्रकारः | दुर्गम् |
प्रादेशिकतथ्यानि | |
नियन्त्रितम् | राजस्थानसर्वकारः |
सार्वजनिकानां प्रवेशः |
आम् |
स्थितिः | संरक्षितम् |
क्षेत्रेतिहासः | |
निर्माणम् | ९६७ |
उपयुक्तम् | १५९२ - १७२७ |
निर्माता | राजा मानसिंहप्रथमः तत्पश्चात् सवाई जयसिंह द्वारा अनेकानि योगदानानि, परिष्काराः च |
निर्माणोपकरणानि | रक्तः बलुआ-पाषाणः, पाषाणः, संगमर्मर च |
रक्तवर्णीय-मृत्प्रस्तरैः, संगमर्मर-प्रस्तरैः च निर्मितम् एतत् आकर्षकं दुर्गं पर्वतस्य चतुर्षु स्तरेषु निर्मितम् अस्ति, येषु प्रत्येकं स्तरे विशालः प्राङ्गणः अस्ति। जन-साधारणेभ्यः प्राङ्गणः, विशिष्ट-जनेभ्यः प्राङ्गणः, काचप्रासादः उत जयमन्दिरं, सुखनिवासः च मुख्यभागाः सन्ति। सुखनिवासे कृत्रिम-जलधारा वर्तते, यया औष्ण्यवातारवणेऽपि अत्र शीलतायाः आनन्दः सम्प्राप्यते। दुर्गमिदं कछवाहा-राजपूत-महाराजेभ्यः, तेषां परिवारेभ्यः च निवासाय निर्मितम् आसीत्। दुर्गे प्रासादस्य मुख्यप्रवेशद्वारस्य निकटे तेषाम् आराध्यायाः चैतन्य-पंथस्य शिला-देव्याः किञ्चन मन्दिरम् अस्ति। आमेरदुर्गस्य, जयगढ-दुर्गस्य च निर्माणम् अरावलीपर्वतमालायाः पर्वताेषु जातम् अस्ति। तयोः मध्ये कश्चन पर्वतीयः विवरमार्गः (tunnel) अपि वर्तते।
राजस्थानस्य अन्यैः पञ्चभिः दुर्गैः सह आमेरदुर्गम् अपि राजस्थानस्य पर्वतीयदुर्गेषु अन्तर्भवति, अतः फ्नोम पेन्ह, कम्बोडिया मध्ये २०१३ वर्षे आयोजिते विश्व-परम्परा-समितेः ३७ तमे सत्रे युनेस्को-विश्व-परम्परा-स्थल-त्वेन स्थानम् अलभत।