अर्जुनः
From Wikipedia, the free encyclopedia
अर्जुनः चन्द्रवंशे जातः अप्रतिमः वीरः । अयं पुरुवंशोद्भवस्य व्यासस्य पौत्रः, पाण्डुमहाराजस्य पुत्रः। इन्द्रांशसमुद्भूतः अयम् अर्जुनः अतिरथाग्रणिः । कुन्ती अस्य माता । द्रौपदी, सुभद्रा, उलूपी, चित्राङ्गदा च अस्य पत्न्यः । श्रुतकर्मा , अभिमन्युः , इरावान्, बभ्रुवाहनः च अर्जुनस्य पुत्राः ।