From Wikipedia, the free encyclopedia
अङ्गिराः कश्चन ऋषिः। ऋग्वेदे अग्निसूक्तस्य द्रष्टा अयं ऋषिः[1][2]। अङ्गिराः एव देवमानवयोः संवादे मध्यवर्ती इति ख्यातः। क्वचित् अङ्गिराः सप्तर्षिषु अन्यतमः इति उल्लेखः विद्यते। अपरत्र सप्तर्षिषु अङ्गिराः न गृह्यते.[3]। अथर्ववेदस्य अथर्वाङ्गिराः ऋषिः द्रष्टा इति केषुचित् हस्तलेखेषु विद्यते। अयम् अङ्गिराः एव प्रसिद्धः ऋषिर्वा इत्यत्र सन्देहः वर्तते[4][5]। अङ्गीरसः शिष्याः आङ्गीरसाः इत्युच्यन्ते। अङ्गीरसः शिष्याः एव ऋग्वेदस्य प्रथमाध्यायस्य, द्वितीयाध्यायस्य, पञ्चमाध्यायस्य, अष्टमाध्यायस्य, नवमाध्यायस्य दशमाध्यायस्य च केषाञ्चन मन्त्राणां द्रष्टारः विद्यन्ते।[1][6][7]
अङ्गिराः | |
---|---|
चोलादेवीं पाठयन् अङ्गिराः | |
Information | |
Family | ब्रह्मा (पिता) |
भार्या(ः)/भर्ता | सुरूपा, श्रुद्धा |
अपत्यानि | उत्तास्यः, संवर्तनः, बृहस्पतिः |
धर्मः | हिन्दू |
अगि गतौ इति धातोः इरुट् प्रत्यये अङ्गिरस् इति शब्दः सिद्ध्यति। अयं च सकारान्तपुंलिङ्गशब्दः। अतः प्रथमाविभक्त्यैकवचने अङ्गिराः इति रूपं भवति।
ऋग्वेदस्य अनेके मन्त्राः अङ्गिरसा तच्छिष्यैः च द्रष्टाः इति उल्लेखः दृश्यते। यथा[7]
अयं न केवलं मन्त्रदृष्टा अपि तु वेदेषु अपि अङ्गिरसः उल्लेखः दृश्यते। अग्निरेव अङ्गिराः इति क्वचित्। ऋग्वेदस्य ३.३१ तमे मन्त्रे अङ्गिराः गायक इति कथितः[14]। यथा
अगच्छदु विप्रतमः सखीयन्नसूदयत्सुकृते गर्भमद्रिः ।
ससान मर्यो युवभिर्मखस्यन्नथाभवदङ्गिराः सद्यो अर्चन् ॥[15]
अथर्ववेदपरम्परायां अथर्वणस्य मान्यता अधिका। सद्गुणाः परोपकारप्रवृत्त्यादयः अथर्वणेन उक्तः। हेयाः वामाचारादयः अङ्गिरसा उक्तः इति हेतोः अथर्वणस्य मान्यता अधिका वर्तते इति पाश्चात्यविदुषां मतम्[16][17]।
बौद्धसाहित्ये अपि अङ्गिरसः उल्लेखः दृश्यते दिङ्निकाये तेविज्जसुत्ते बुद्धस्य वैदिकऋषिभिः सह संवादः वर्णितः। तत्र बुद्धः समकालीनां ऋषीणां पूर्वऋषीणां च उल्लेखं करोति। इमे पूर्वऋषयः दश विद्यन्ते इति तस्य कथनम्। तेषु दशसु ऋषिषु अङ्गिराः अपि अन्यतमः।
पुराणादिषु अङ्गिरसः नाम्नः उल्लेखः बहुत्र बहुधा वर्तते। तस्य जीवनस्य विवाहस्य च विषये नैकाः कथाः श्रूयन्ते।[2] क्वचित् ब्रह्मणः पुत्ररूपेण तस्य उल्लेखः भवति चेत् अन्यत्र क्वचित् प्रजापतिषु तस्य उल्लेखः दृश्यते। महाभारते ब्रह्ममानसपुत्राणां कथनावसरे अङ्गिरसः अपि नाम उच्चारितम् यथा- ब्रह्मणो मानसाः पुत्त्रा विदिताः षण्महर्षयः मरीचि-रत्र्यङ्गिसौ पुलस्त्यः पुलहः क्रतुः” इति मार्कण्डेयपुराणे अपि “त्वमग्ने प्रथमोऽङ्गिरा ऋषिर्देवानामिति” श्रुतौ अग्ने-रङ्गिरस्त्वमुक्तं तत्कथा । इत्युक्तम् [18]।अङ्गीरसः पत्नीनां सङ्ख्या एकम् द्वे चत्वारि इति मतभेदः वर्तते।.[2] क्वचित् तस्य पत्नी सुरूपा, पुत्राश्च उत्तास्यः, संवर्तनः बृहस्पतिश्च इत्युल्लिखितम्[19]। अन्यत्र तस्य पत्नी स्मृतिः (दक्षपुत्री) एवं स्वधा इत्यपि उल्लिखितम्।[6] शुभां परिणीय अग्निरूपाः सप्त पुत्रीः बृहस्पतिनामकं पुत्रं च प्राप्तवान् इत्यपि कथा श्रूयते।[1][6]
अन्यत्र अङ्गिराः तपः समाचर्य परब्रह्म प्राप्तुम् एच्छत्। अङ्गीरसः तु जन्मना एव तेजः आसीत्। तत् च तेजः तपसः कारणात् अनन्तम् अभवत्। तथापि तपः अनुवर्तयन् अङ्गिराः परब्रह्मैक्यं सम्पाद्य ब्रह्मर्षिः सञ्जातः। अनेकान् मन्त्रान् च ददर्श। भृगुना सह अग्न्याराधनपरम्परायाः आरम्भकर्ता अभवत्।[6]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.