शुनकः
From Wikipedia, the free encyclopedia
शुनकः (श्वा वा कुक्कुरः वा) गार्ह्यपशुः अस्ति। प्रायः ४ कोटिवर्षेभ्यः पूर्वं भूमौ मयासिस् इति क्रूरजन्तुः आसीत्। मयासिस् एव शुनकस्य पूर्वजाः इति उहयन्ति। १२ सहस्रवर्षेभ्यः पूर्वं मानवस्य सन्निहिताः आसन् इत्यस्मिन् विषये अधाराः लभ्यन्ते। भारतीय पुराणादिषु शुनकस्य उल्लेखाः सन्ति। मृगयार्थं श्वानस्य उपयोगं सर्वदा पूर्विकाः कुर्वन्तिस्म। युद्धे, एवं गृहादिरक्षणार्थम् उपयोगं कुर्वन्ति। अस्य मुख्यः गुणः घ्राणशक्तिः भवति। अद्यापि विश्वे “श्वानदळः” रक्षणाकार्ये सर्वदा सन्नद्धोऽस्ति। वैद्यकीय संशोधनकार्येषु शुनाकानां उपयोगः नितराम् अस्त्येव। शुनकेभ्यः संशोधितम् औषधं आदौ परीक्षार्थं दास्यन्ति इति।