रागः
From Wikipedia, the free encyclopedia
रागः (Raga) नाम षड्जादीनां स्वराणां समूहः । सङ्गीतं स्वाराणाम् एका भाषा। प्रत्येकः स्वरः अन्तःकरणस्य भावतरङ्गान् प्रसारयति । स्वरसहिताः रागाः अनिर्वचनीयम् आनन्दं ददन्ति। रागरसयोः प्रत्यक्षसंबन्धं कल्पयितुं नशक्यते। तथापि भावनानां जागरणेन रसनिर्माणकार्ये कारणीभूताः रागाः। रसाभिव्यक्तेः कारणानि गायनशैली, योग्यः कण्ठस्वरः, उच्चारणम्, लयः, गीतशब्दानि तथा भावाः भवन्ति । विविधरागाणां श्रवणेन भिन्न भिन्न भावतरङ्गाः मनसि स्वविचारान् भावान् अभिव्यञ्जयन्ति । गम्भीरस्वरयुक्तैः शङ्करा, कामोद, केदाररागः,अढाण, हमीर तथा नटादि स्वरैः शान्तरसस्य उत करुणरसस्य निष्पत्तिः नभवति । एवमेव ॠजुस्वरैः श्रीरागः, भैरवी, जोगिया, आसावरिरागः, तोडिरागः, पीलु इत्यादिभिः रौद्ररसस्य उत वीररसस्य निष्पत्तिः नभवति । रागालापनेन तत्तत्त रागसम्बन्धित देवताः सन्तुष्टाः भवन्ति। उदाहरणार्थम्, शङ्करा, भैरवरागः, केदाररागःरागान् गायते चेत् शिवः तुष्टः भवति । "दीपकरागं" यदा "तानसेनः" गीतवान् तदा दीपः प्रज्वलितः आसीत् । बिलासखानि तोडिरागं यदा गीतवान् तदा मृतशरीरे नेत्रोऽन्मीलनक्रिया जाता इति ।
- योऽसौ ध्वनिविशेषस्तु स्वरवर्णविभूषितः ।
- रञ्जको जनचित्तानां स च राग उदाहृतः ।।