पट्टदकल्लुस्मारकसमूहः
From Wikipedia, the free encyclopedia
पट्टदकल्लुस्मारकसमूहः (Pattadakal) भारतदेशस्य कर्णाटकराज्यस्य प्रेक्षणीयस्थलेषु अन्यतमः । हैन्दवदेवालयस्य शिल्पकलायाः सर्वप्रथमादर्शभूतः देवालयः पट्टदकल्लु । दक्षिणोत्तरभारतयोः शैली अत्र सम्मिश्रा अस्ति । पट्टदकल्लु कञ्चित्कालं चालुक्यवंशस्य दक्षिणभारतराजधानी आसीत् । अस्य वंशस्य राजानः सप्तम-अष्टमशतकयोः अत्र मन्दिराणि निर्मितवन्तः । अत्र नव मुख्यदेवालयाः कश्चित् जैनदेवालयः च अस्ति । सर्वप्रसिद्धः विरूपक्षदेवालयः क्रि.श. ७४०तमे वर्षे लोकमाहादेव्या निर्मितः । अयं देवालयः चालुक्यराजस्य जैत्रयात्रायाः स्मरणाय निर्मितः । अस्मिन् मन्दिरसमूहे मल्लिकार्जुनमन्दिरं, पापनाथमन्दिरञ्च विद्यते । अयं मन्दिरसमूहः क्रि.श. १९८७तमे वर्षे विश्वपरम्परास्थानस्य आवल्याम् अन्तर्गतः ।
त्वरिततथ्यानि पट्टदकल्लुस्मारकसमूहः, विश्वपरम्परास्थानानि ...
पट्टदकल्लुस्मारकसमूहः | |
---|---|
विश्वपरम्परास्थानानि | |
राष्ट्रम् | भारतम् |
प्रकारः | सांस्कृतिकम् |
मानदण्डः | iii, iv |
अनुबन्धाः | २३९ |
क्षेत्रम् | एषियापेसिफिक् |
शिलाभिलेखस्य इतिहासः | |
शिलाभिलेखाः | क्रि.श.१९८७ (एकादशं सत्रम्) |
* विश्वपरम्परावल्याम् अङ्कितानि नामानि । ^ यूनेस्को द्वारा वर्गीकृतक्षेत्रम् |
पिदधातु