कोलकाता
भारतस्य पश्चिमबङ्गस्य राजधानीनगरम् / From Wikipedia, the free encyclopedia
कोल्काता (वङ्ग: কলকাতা, কোলকাতা), भारतस्य पूर्वाञ्चलीयस्य पश्चिमवङ्गराज्यस्य राजधानी, प्रधानवानिज्यकेन्द्रं तथा वृहत्तमनगरम् । हुगलीनद्याः पूर्वतीरे अवस्थिते[4] नगरेऽस्मिन् पञ्चाशताधिकलक्षजनाः निवसन्ति । परन्तु कोलकातानगरसंलग्नानां प्रदेशानाम् अंशविषेशेन निर्मितस्य वृहत्तरकोलकातानगरस्य जनसंख्या प्रायः १ कोटि ४० लक्षपरिमितम् । जनसंख्याविचारे नगरमिदं भारतस्य तृतीयवृहन्नगरं तथा द्वितीयमहानगरम् । समग्रविश्वे कोलकातामहानगरं अष्टमस्थानम् (जनसंख्याविचारे) आवहति[5] ।
कोल्काता কলকাতা कलिकाता | |||||||
सिटि ऑफ़् जॉय् (आनन्दनगरम्) | |||||||
— बृहन्नगरम् — | |||||||
निर्देशाङ्काः
22.5726723°उत्तरदिक् 88.3638815°पूर्वदिक् / २२.५७२६७२३; ८८.३६३८८१५ | |||||||
देशः | भारतम् | ||||||
राज्यम् | पश्चिमवङ्गः | ||||||
मण्डलम् | कोल्कातामण्डलम्[upper-alpha 1] | ||||||
पौरपिता | शोभन् चट्टोपाध्याय[1] | ||||||
रक्षणमुख्यायुक्तः | सुरजीत् कर् पुरकायस्थ[2] | ||||||
शेरिफ़् | इन्द्रजीत् राय्[3] | ||||||
जनसङ्ख्या • सान्द्रता |
४४,८६,६७९ • 24,252 /किमी2 (62,812 /वर्ग मील) | ||||||
व्यावहारिकभाषा(ः) | वङ्गभाषाः, आंग्लः, हिन्दी | ||||||
---|---|---|---|---|---|---|---|
समयवलयः | IST (UTC+05:30) | ||||||
विस्तीर्णम् | 1,886.67 वर्ग किलोमीटर (728.45 वर्ग मील) | ||||||
सङ्केताः
| |||||||
टिप्पणी
| |||||||
जालस्थानम् | www.kolkatamycity.com |
१७७२ तमे संवत्सरे वङ्गस्य राजधानी प्रथमवारं मुर्शिदाबादतः कोलकातां प्रति स्थानान्तरिता आसीत् । न केवलं वङ्गस्य अपि तु १९११ वर्षपर्यन्तं समग्रभारतस्य राजधानी आसीत् । १९२३ तमे वर्षे क्यालकाटा म्युनिसिपल् एक्ट् माध्यमेन कोलकातनगरस्य स्वायत्वशासनकर्ती एका पौरसंस्था स्थापिताऽसीत् । १९४७ वर्षे भारतविभाजनान्तरं कोलकाता नवनिर्मितस्य पश्चिमवङ्गराज्यस्य राजधानी घोषिता जाता आसीत् । तस्मिन् समये कोलकाता आधुनिकभारतस्य शिक्षा-विज्ञान-शिल्प-संस्कृति-राजनीतेः पीठस्थानमासीत् । १९५४ तमवर्षानन्तरं राजनैतिकास्थिरतया तथा अर्थनैतिकावक्षयेन प्राचीनगौरवस्थानं खर्वितम् आसीत् ।
वैप्लविकान्दोलननिमित्तम् एवञ्च सुदीर्घसांस्कृतिक-ऐतिह्यनिमित्तम् अस्य कोलकातानगरस्य प्रसिद्धिः । भारतस्य स्वाधीनतान्दोलने तथा परवर्तीकाले वामपन्थीनः गणान्दोलने नगरमिदं प्रमुखभूमिकाम् अवहत् । अपरपक्षे आधुनिकभारतस्य प्रधानसांस्कृतिककेन्द्रेषु अन्यतमा कोलकाता जाता । एतस्मात् कोलकाता भारतस्य सांस्कृतिकराजधानी इत्याख्यया अभिहिता[6] । अपरेपक्षे कोलकातायाः आनन्दनगरी(City of Joy) इत्यपि सुप्रसिद्धनाम विद्यते । राजा राममोहन राय, रवीन्द्रनाथ ठाकुर्, स्वामी विवेकानन्दः, सुभाष चन्द्र बसु, मादार् तेरेसा, सत्यजीत् राय, सी वी रमन्, अमर्त्य सेन् प्रमुखाणां विश्ववरेण्यव्यक्तीनां कर्मभूमिः कोलकाता महानगरी । समृद्धसांस्कृतिक-ऐतिह्यनिमित्तं एषा नगरी आ विश्वे उन्नतस्थानम् आप्नोति ।